|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.73. अध्यायः 073
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति पुरोहितलक्षणादिवर्णनम्। ऐलकश्यपसंवादानुवादश्च॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
` युधिष्ठिर उवाच। 12-73-0x(5512)(67673)
राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत्।
पुरोधा यादृशः कार्यः कथयस्व पितामह॥ 12-73-1(67674)
भीष्म उवाच। 12-73-2x(5513)
गौरो वा लोहितो वाऽपि श्यामो वा नीरुजः सुखी।
अक्रोधनो ह्यचपलः सर्वतश्च जितेन्द्रियः॥' 12-73-2(67675)
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः।
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्॥ 12-73-3(67676)
धर्मात्मा मन्त्रविद्येषां राज्ञां राजन्पुरोहितः।
`तेषामर्थश्च कामश्च धर्मश्चेति विनिश्चयः॥ 12-73-4(67677)
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर।
उच्छिष्टः स भवेद्राजा यस्य नास्ति पुरोहितः॥ 12-73-5(67678)
रक्षसामसुराणां च पिशाचोरगपक्षिणाम्।
शत्रूणां च भवेद्वध्यो यस्य नास्ति पुरोहितः॥ 12-73-6(67679)
ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः।
राज्ञश्चाथर्ववेदेन सर्वकर्माणि कारयेत्॥ 12-73-7(67680)
ब्रूयाद्गर्ह्याणि सततं महोत्पातान्यघानि च।
इष्टमङ्गलयुक्तानि तथाऽन्तः पुरिकाणि च॥ 12-73-8(67681)
गीतनृत्ताधिकारेषु संमतेषु महीपतेः।
कर्तव्यं करणीयं वै वैश्वदेवबलिस्तथा॥ 12-73-9(67682)
पक्षसंधिषु कुर्वीत महाशान्तिं पुरोहितः।
रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम्॥ 12-73-10(67683)
राज्ञः पापमलाः सप्त यानृच्छति पुरोहितः।
अमात्याश्च कुकर्माणो मन्त्रिणश्चाप्युपेक्षकाः॥ 12-73-11(67684)
चौर्यमव्यवहारश्च व्यवहारोपसेविनाम्।
अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्यदण्डनम्॥ 12-73-12(67685)
हिंसा चान्यत्र संग्रामाद्राज्ञश्च मल उच्यते।
कुभृत्यैस्तु प्रजानाशः सप्तमस्तु महामलः॥ 12-73-13(67686)
रौद्रैर्होमैर्महाशान्त्या घृतकम्बलकर्मणा।
भृग्वङ्गिरोविधिज्ञो वै पुरोधा निर्णुदे मलात्॥ 12-73-14(67687)
एतान्हित्वा दिवं याति राजा सप्त महामलान्।
सामात्यः सपुरोधाश्च प्रजानां पालने रतः॥ 12-73-15(67688)
एतस्मिन्नेव कौरव्य पौरोहित्ये महामते।
श्लोकानाह महेन्द्रस्य गुरुर्देवो बृहस्पतिः॥ 12-73-16(67689)
तान्निबोध महीपाल महाभाग हिताञ्शुभान्।
ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम्॥ 12-73-17(67690)
न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम्।
शान्तिकं पौष्टिकं चैव अरिष्टानां च शातनम्॥ 12-73-18(67691)
शप्तास्ते याज्ञवल्क्येन यज्ञानां हितमीहता।
ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणः संमते विभोः॥ 12-73-19(67692)
बह्वृचं सामगं चैव वाजिनं च विवर्जयेत्।
बह्वृचो राष्ट्रनाशाय राजनाशाय सामगः।
अध्वर्युर्बलनाशाय प्रोक्तो वाजसनेयकः॥ 12-73-20(67693)
अब्राह्मणेषु वर्णेषु मन्त्रान्वाजसनेयकान्।
शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत्॥ 12-73-21(67694)
ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः।
वेदाश्चत्वार इत्येते ब्राह्मणा ये च तद्विदुः॥ 12-73-22(67695)
पौरोहित्ये प्रमाणं तु ब्राह्मणश्च महीपतेः।
जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः॥ 12-73-23(67696)
चातुर्वर्ण्यबहिष्ठोऽपि स एव क्षत्रियः स्मृतः।
भार्गवाङ्गिरसैर्मन्त्रैस्तेषां कर्म विधीयते॥ 12-73-24(67697)
वैतानं कर्म यच्चैव गृह्यकर्म च यत्स्मृतम्।
द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते॥ 12-73-25(67698)
राजधर्मप्रवृत्तानां हितार्थं त्रीमि कारयेत्।
शान्तिकं पौष्टिकं चैव तथाऽभिचरणं च यत्॥ 12-73-26(67699)
अग्निष्टोममुखैर्यज्ञैर्दूषिता भूपकर्मभिः।
न सम्यक्फलमृच्छन्ति ये यजन्ति द्विजातयः॥ 12-73-27(67700)
पौरोहित्यं तु कुर्वाणा नाशं यास्यन्ति भूभृताम्।
यज्ञकर्माणि कुर्वाणा ऋत्विजस्तु विरोधिनः॥ 12-73-28(67701)
ब्रह्मक्षत्रविशः सर्वे पौरोहित्ये विवर्जिताः।
तदभावे च पारक्यं निर्दिष्टं राजकर्मसु॥ 12-73-29(67702)
ऋषिणा याज्ञवल्क्येन तत्तथा न तदन्यथा।
भार्गवाङ्गिरसां वेदे कृतविद्यः षडङ्गवित्॥ 12-73-30(67703)
यज्ञकर्मविधिज्ञस्तु विधिज्ञः पौष्टिकेषु च।
अष्टादशविकल्पानां विधिज्ञः शान्तिकर्मणाम्॥ 12-73-31(67704)
सर्वरोगविहीनश्च संयतः संयतेन्द्रियः।
श्वित्रकुष्ठक्षयक्षीणैर्ग्रहापस्मारदूषितैः॥ 12-73-32(67705)
अशस्तैर्वातदुष्टैश्च दूरस्थैः संवदेन्नृपः।
रोगिणं ऋत्विजं चैव वर्जयेच्च पुरोहितम्॥ 12-73-33(67706)
नचान्यस्य कृतं येन पौरोहित्यं कदाचन।
यस्य याज्यो मृतश्चैव भ्रष्टः प्रव्रजितो यथा॥ 12-73-34(67707)
युद्धे पराजितश्चैव सर्वांस्तान्वर्जयेन्नृपः।
नक्षत्रस्यानुकूल्येन यः संजातो नरेश्वरः॥ 12-73-35(67708)
राजशास्त्रविनीतश्च श्रेयान्राज्ञः पुरोहितः।
अधन्यानां निमित्तानामुत्पातानामथार्थवित्॥ 12-73-36(67709)
शत्रुपक्षक्षयज्ञश्च श्रेयान्राज्ञः पुरोहितः।
वाजिनं तदभावे च चरकाध्वर्यवानपि॥ 12-73-37(67710)
बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान्।
कृतिनोऽथर्वणो वेदे स्थापयेत्तु पुरोहितान्॥ 12-73-38(67711)
हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर्द्विजैः।
न तानुच्चारयेत्प्राज्ञः क्षात्रधर्मविरोधिनः॥ 12-73-39(67712)
प्रजागुणाः पुरोधाश्च पुरोहितगुणाः प्रजाः।'
राजा वै सगुणो येषां कुशलं तेषु सर्वशः॥ 12-73-40(67713)
उभौ प्रजा वर्धयतो देवान्पूर्वापरान्पितॄन्।
यौ भवेतां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ॥ 12-73-41(67714)
परस्परस्य सुहृदौ विहितौ समचेतसौ।
ब्रह्मक्षत्रस्य समानात्प्रजा सुखमवाप्नुयात्॥ 12-73-42(67715)
विमाननात्तयोरेव प्रजा नश्येयुरेव हि।
ब्रह्मक्षत्रं हि सर्वासां प्रजानां मूलमुच्यते॥ 12-73-43(67716)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर॥ 12-73-44(67717)
ऐल उवाच। 12-73-45x(5514)
यदा हि ब्रह्म प्रजहाति क्षत्रं
क्षत्रं यदा वा प्रजहाति ब्रह्म।
अन्वग्बलं कतमेऽस्मिन्भजन्ते
तथा बलं कतमेऽस्मिन्ध्रियन्ते॥ 12-73-45(67718)
कश्यप उवाच। 12-73-46x(5515)
द्विधा हि राष्ट्रं भवति क्षत्रियस्य
ब्रह्म क्षत्रं यत्र विरुध्यतीह।
अन्वग्बलं दस्यवस्तद्भजन्ते
तथा वर्णं तत्र विदन्ति सन्तः॥ 12-73-46(67719)
नैषां ब्रह्म च वर्धते नोत पुत्रा
न गर्गरो मथ्यते नो जयन्ते।
नैषां पुत्रा देवमधीयते च
यदा ब्रह्म क्षत्रियाः संत्यजन्ति॥ 12-73-47(67720)
नैषामर्थो वर्धते जातु गेहे
नाधीयते तत्प्रजा नो यजन्ते।
अपध्वस्ता दस्युभूता भवन्ति
ये ब्राह्मणान्क्षत्रियाः संत्यजन्ति॥ 12-73-48(67721)
एतौ हि नित्यं संयुक्तावितरेतरधारणे।
क्षत्रं वै ब्रह्मणो योनिर्योनिः क्षत्रस्य वै द्विजः॥ 12-73-49(67722)
उभावेतौ नित्यमभिप्रपन्नौ
संप्रापतुर्महतीं संप्रतिष्ठाम्।
तयोः सन्धिर्भिद्यते चेत्पुराण
स्ततः सर्वं भवति हि संप्रमूढम्॥ 12-73-50(67723)
नात्र पारं लभते पारगामी
महोदधौ नौरिव संप्रभिन्ना।
चातुर्वण्यं भवति हि संप्रमूढं
प्रजास्ततः क्षयसंस्था भवन्ति॥ 12-73-51(67724)
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति।
अरक्ष्यमाणः सततमश्रु पापं च वर्षति॥ 12-73-52(67725)
अब्रह्मचारी चरणादपेतो
यदा ब्रह्म ब्रह्मणि त्राणमिच्छेत्।
आश्चर्यतो वर्षति तत्र देव
स्तत्राभीक्ष्णं दुष्प्रभाश्चाविशन्ति॥ 12-73-53(67726)
स्त्रियं हत्वा ब्राह्मणं वाऽपि पापः
सभायां यत्र लभते साधुवादम्।
राज्ञः सकाशे न विभेति चापि
ततो भयं विद्यते क्षत्रियस्य॥ 12-73-54(67727)
पापैः पापे क्रियमाणेऽतिवेलं
ततो रुद्रो जायते देव एषः।
पापैः पापाः संजनयन्ति रुद्रं
ततः सर्वान्साध्वसाधून्हिनस्ति॥ 12-73-55(67728)
ऐल उवाच। 12-73-56x(5516)
कुतो रुद्रः कीदृशो वाऽपि रुद्रः
सत्वैः सत्वं दृश्यते वध्यमानम्।
एतत्सर्वं कश्यप मे प्रचक्ष्व
यतो रुद्रो जायते देव एषः॥ 12-73-56(67729)
कश्यप उवाच। 12-73-57x(5517)
आत्मा रुद्रो हृदये मानवानां
स्वं स्वं देहं परदेहं च हन्ति।
वातोत्पातैः सदृशं रुद्रमाहु
र्देवं जीमूतैः सदृशं रूपमस्य॥ 12-73-57(67730)
ऐल उवाच। 12-73-58x(5518)
न वै वातः परिवृणोति कश्चि
न्न जीमूतो वर्षति तत्र देवः।
तथा युक्तो दृश्यते मानुषेषु
कामद्वेषाद्वध्यते मुह्यते च॥ 12-73-58(67731)
कश्यप उवाच। 12-73-59x(5519)
यथैकगेहाज्जातवेदाः प्रदीप्तः
कृत्स्नं ग्रामं दहते च त्वरावान्।
विमोहनं कुरुते देव एप
ततः सर्वं स्पृश्यते पुण्यपापैः॥ 12-73-59(67732)
ऐल उवाच। 12-73-60x(5520)
यदि दण्डः स्पृशतेऽपुण्यपापं
पापं पापे क्रियमाणे विशेषात्।
कस्य हेतोः सुकृतं नाम कुर्या
द्दुष्कृतं वा कस्य हेतोर्न कुर्यात्॥ 12-73-60(67733)
कश्यप उवाच। 12-73-61x(5521)
असंत्यागात्पापकृतामपापां
स्तुल्यो दण्डः स्पृशते मिश्रभावात्।
शुष्केणार्द्रं दह्यते मिश्रभावा
न्न मिश्रः स्यात्पापकृद्भिः कथंचित्॥ 12-73-61(67734)
ऐल उवाच। 12-73-62x(5522)
साध्वसाधून्धारयतीह भूमिः
साध्वसाधूंस्तापयतीह सूर्यः।
साध्वसाधूंश्चापि वातीह वायु
रापस्तथा साध्वसाधून्वहन्ति॥ 12-73-62(67735)
कश्यप उवाच। 12-73-63x(5523)
एवमस्मिन्वर्तते लोक एष
नामुत्रैवं वर्तते राजपुत्र।
प्रेत्यैतयोरन्तरावान्विशेषो
यो वै पुण्यं चरते यश्च पापम्॥ 12-73-63(67736)
पुण्यस्य लोको मधुमान्घृतार्चि
र्हिरण्यज्योतिरमृतस्य नाभिः।
तत्र प्रेत्य मोदते ब्रह्मचारी
न तत्र मृत्युर्न जरा नोत दुःखम्॥ 12-73-64(67737)
पापस्य लोको निरयोऽप्रकाशो
नित्यं दुःखं शोकभूयिष्ठमेव।
तत्रात्मानं शोचति पापकर्मा
वह्वीः समाः प्रतपन्नप्रतिष्ठः॥ 12-73-65(67738)
मिथोभेदाद्ब्राह्मणक्षत्रियाणां
प्रजा दुःखं दुःसहं चाविशन्ति।
एवं ज्ञात्वा कार्य एवेह विद्वान्
पुरोहितो नैकविद्यो नृपेण॥ 12-73-66(67739)
तं चैव लब्ध्वाभिषिञ्चेत्तथा धर्मो विधीयते।
अग्रं हि ब्राह्मणः प्रोक्तं सर्वस्यैवेह धर्मतः॥ 12-73-67(67740)
पूर्वं हि ब्रह्मणः सृष्टिरिति ब्रह्मविदो विदुः।
ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तमम्॥ 12-73-68(67741)
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक्।
सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धीमतः॥ 12-73-69(67742)
अवश्यमेतत्कर्तव्यं राज्ञा बलवताऽपि हि।
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते।
राज्ञः सर्वस्य चान्यस्य स्वामी राज्ञः पुरोहितः॥ ॥ 12-73-70(67743)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिसप्ततितमोऽध्यायः॥ 73॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-73-14 निर्णुदे मोचयेत्। राजानमिति शेषः॥ 12-73-46 क्षत्र कर्तृ। तत्र क्षत्रे सन्तः वर्णं विन्दन्ति। ब्राह्मणानामवमन्ता म्लेच्छजातीयोऽयं राजेत्यनुमानाज्जानन्ति। यथोक्तंभोगेन ज्ञायते कर्म कर्मणा ज्ञायते जनिरिति। तथा बलं तद्भियन्ते च सन्त इति ट. ड. थ. पाठः॥ 12-73-50 अभिप्रपन्नौ अन्योन्यशरणौ। क्षत्रशरणं ब्रह्म तपस्यति ब्रह्मशरणं क्षत्रं जयतीति भावः॥ 12-73-52 मधु सुखम्। अश्रु दुःखम्। पापं नरकम्॥ 12-73-53 ब्रह्म ब्राह्मणजातिः। ब्रह्मचरणादपेतत्वादब्रह्मचारी वेदाध्ययनशून्यः सन् त्राणं रक्षणं इच्छेत्तदा देवस्तत्र आश्चर्यतो वर्षति। तत्र वर्षः अत्यन्तं दुर्लभमित्यर्थः॥ 12-73-55 रुद्रो हिंस्रः। देवो राजा। रुद्रं कलिम्॥ 12-73-57 मानवानां हृदये य आत्मा जीवोऽस्ति स एव रुद्रः संहर्ता भवति। ननु कुतः शान्तस्यात्मनो रुद्रत्वमत आह वातेति। यथा उत्पातवात आकाशोत्थ आकाशोत्थां मेघदेवतामितस्ततो नयति गर्जयति विद्युदशनिवारीणि च तत आविर्भावयत्येवमात्मोत्थिताः काप्नक्रोधादयः सर्वं हिंस्रं कारयन्तीत्यर्थः॥ 12-73-58 यथा आकाशेन युक्तास्ततः पृथग्भूताः वातो मेघाश्च मेघप्रवर्तकदेवता च प्रत्यक्षेण शास्त्रज्ञानेन च दृश्यन्ते नैवं जीवो वा तदभिभावकः कामादिर्वा पृथक् दृश्यते किंत्वात्मन्येव वह्यौष्ण्यवत्कामद्वेषौ वर्तेते तौ चैतस्य संबन्धकौ मोहको च भवत इत्यर्थः॥ 12-73-59 यथाऽल्पोऽपि वह्निरधिकमधिकं काष्ठभारमुपारुह्य कृत्स्नं ग्रामं दहति तत्र न केवलं काष्ठानां दाहकत्वं नापि काष्ठान्यनुपारूढस्याग्नेः किंतु तदुभयसंघातस्यैव। तत्रापि विवेके क्रियमाणे वह्नेरेवोपाध्यावेशाद्दाहकत्वम्। एवमात्मानमारुह्याहंकारवह्निः कामक्रोधादिवातैरुद्दीपितो रुद्रत्वं प्रतिपद्यते॥ 12-73-60 अपुण्यपापमप्यात्मानं यदि विशेषात् क्रियमाणे पापे निमित्तभूते सति दण्डः पापं दण्डात्मकं पापं गालनताडनादि दुःखं कर्तृ स्पृशते मोहादिति ब्रवीषि तर्हि पुण्यकरणं पापवर्जनं च शास्त्रचोदितं वृथैव स्यात्॥ 12-73-67 तं पुरोहितं लब्ध्वा आत्मानं राज्येऽभिषिञ्चेत्॥ 12-73-70 एवं राज्ञा विशेषेण पूज्या वै ब्राह्मणाः सदा इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|